रचना क्र. 344
ओंकाराय नमो गणपतये
श्री पेठेकाका · null
null
ओंकाराय नमो गणपतये,
शक्तिशिवाय नमोनमः।
श्री यवतेश्वर जानुदेवता,
अवधूताय नमोनमः ॥१॥
दरेग्रामस्थित देवदेवता,
दिक्कालाय नमोनमः ।
पृथ्वीजलतेजादिवायुनभ,
श्रीसगुणाय नमोनमः॥२॥
नरनारीभगवत्स्वरुपाणाम्,
ग्रामजनाय नमोनमः ।
संतस्थितनगरीवलयांकित,
दिव्यत्वाय नमोनमः॥३॥
अरुणाचलशिवदक्षिणमूर्ते,
अभयकराय नमोनमः ।
भैरवादिशिवरुद्रगणानां,
कृपाकराय नमोनमः ॥४॥
वृक्षपशूनां विहंगमानां,
सत्संगाय नमोनमः ।
प्रातःस्मरणीयां सन्तानां,
गुरुचरणाय नमोनमः ।
गुरुचरणाय नमोनमः
गुरुचरणाय नमोनमः ॥५॥
