रचना क्र. 62
श्री टेंब्येस्वामींची आरती
श्री पेठेकाका · null
null
वन्दे टेंब्येस्वामिगुरुं श्री परमहंसदत्तं |
परिव्राजकं आचार्यं प्रणतोsस्मि वासुदेवं ||धृ||
ज्योतिषशास्त्रे पूर्णाभ्यास: ब्रह्माचरणं कृतं |
वेदशास्त्रवेदाङ्गे प्राप्तं अपूर्व नैपुण्यं ||१||
सगुणपूजनं वेदाभ्यास: स्वीकृत गार्हस्थ्यं |
घोर संसृतिं दूरी कृत्वा निर्वेद प्राप्तं ||२||
सप्तशतिं वा करुणात्रिपदिं दिव्यलेखनं कृतं |
जड जीवानां दु:खनिवृत्तेर् विविध मंत्र दत्तं ||३||
पादाक्रान्तं भारतवर्षं संस्थापय धर्मं |
चातुर्मास्ये स्थाने स्थाने कृतं भक्तिवर्धनं ||४||
समाधिस्थिते नर्मदातटे गरुडेश्वरवासिनं |
पालय हे करुणालय स्वामिन् दीनभक्तवृन्दं ||५||
