रचना क्र. 381
एको गुरुः स्यात्
श्री पेठेकाका · null
null
एको गुरुः स्यात्, न अन्यं, न अन्यं ॥धृ॥
न मे अस्ति देहो, न हस्तौ, न जिव्हा ।
न मे वाणि नेत्रौ, न दृष्टि र्न श्रोत्रं ॥१॥
प्रपिता न पितुः, न जाया, न भर्ता ।
न मे पुत्रदुहिता, न श्यालः न पौत्रः ॥२॥
न भूमिर्नगेहं, न च वस्त्रपात्रं ।
न धान्यंधनं मे, न च वस्तुमात्रं ॥३॥
न राज्यं, न सत्ता, न च कोऽपि धर्ता ।
न शस्त्रं, न शास्त्रं, न पुण्यं, हिरण्यं ॥४॥
न भक्तिर्नकर्मं, न ज्ञानं, न ध्यानं ।
न भावः, न दानं, न च शुद्ध चित्तं ॥५॥
न श्रद्धा, न त्राता, मतिहीन दीनः ।
दयासिन्धु गुरुरेव अभिस्वीकरोतु ॥६॥
